|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.258. अध्यायः 258
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
कार्तवीर्यार्जुनंप्रति वायुना ब्राह्म्णमहिमप्रशंसके स्ववाक्ये प्रामाण्यनश्चयाय दृष्टान्ततयाऽङ्गिरः प्रभृतिब्राह्मणचरित्रविशेषप्रतिपादनम्॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
वायुरुवाच।
शृणु मूढ गुणान्कांश्चिद्ब्राह्मणानां महात्मनाम्।
ये त्वया कीर्तिता राजंस्तेभ्योऽथ ब्राह्मणो वरः॥ 13-258-1(91784)
त्यक्त्वा महीत्वं भूमिस्तु स्पर्धया काश्यपस्य ह।
नाशं जगाम तां विप्रो व्यस्तम्ययत कश्यपः॥ 13-258-2(91785)
अक्षया ब्राह्मणा राजन्दिवि चेह च नित्यदा।
अपिबत्तेजसा ह्यापः स्वयमेवाङ्गिराः पुरा॥ 13-258-3(91786)
स ताः पिबञ्शीरमिव नातृप्यत महातपाः।
अपूरयन्महौघेन महीं सर्वां च पार्थिव॥ 13-258-4(91787)
तस्मिन्नहं च क्रुद्धे वै जगत्त्यक्त्वा ततो भयात्।
व्यतिष्ठमग्निहोत्रे च चिरमङ्गिरसो भयात्॥ 13-258-5(91788)
अथ शप्तश्च भगवान्गौतमेन पुरंदरः।
अहल्यां कामयानो वै धर्मार्थं च न हिंसितः॥ 13-258-6(91789)
तथा समुद्रो नृपते पूर्णो दृष्टश्च वारिणा।
ब्राह्मणैरभिशप्तश्च बभूव लवणोदकः॥ 13-258-7(91790)
सुवर्णवर्णो निर्धूमः सङ्गतोर्ध्वशिखः कविः।
क्रुद्धेनाङ्गिरसा शप्तो गुणैरेतैर्विवर्जितः॥ 13-258-8(91791)
महतश्चूर्णितान्पश्य ये हासन्त महोदधिम्।
सुवर्णिधारिणा नित्यमवशप्ता द्विजातिना॥ 13-258-9(91792)
सम्मतत्वं द्विजातिभ्यः श्रेष्ठं विद्धि नराधिप।
गर्भस्थान्ब्राह्मणाञ्शश्वन्नमस्यति किल प्रभुः॥ 13-258-10(91793)
दण्डकानां महद्राज्यं ब्राह्मणेन विनाशितम्।
तालजङ्घं महाक्षत्रमौर्वेणैकेन नाशितम्॥ 13-258-11(91794)
त्वया च विपुलं राज्यं बलं धर्मं श्रुतं तथा।
दत्तात्रेयप्रसादेन प्रप्तं परमदुर्लभम्॥ 13-258-12(91795)
अग्निं त्वं यजसे नित्यं कस्माद्ब्राह्मणमर्जन।
स हि सर्वस्य लोकस्य हव्यवाट् किं न वेत्सि तम्॥ 13-258-13(91796)
अथवा ब्राह्मणश्रेष्ठमनुभूतानुपालकम्।
कर्तारं जवलोकस्य कस्माज्जानन्विमुह्यसे॥ 13-258-14(91797)
तथा प्रजापतिर्ब्राह्मा अव्यक्तप्रभवोऽव्ययः।
येनेदं विपुलं विश्वं जनितं स्थावरं चरम्॥ 13-258-15(91798)
अण्डजातं तु ब्रह्माणं केचिदिच्छिन्त्यपण्डिताः।
अण्डाद्भिन्नाद्बभुः शैला दिशोंऽभः पृथिवी दिवम्॥ 13-258-16(91799)
दृष्टवानेतदेवं हि कथं जायेदजो हि सः।
स्थानमाकाशमण्डं तु यस्माज्जातः पितामहः॥ 13-258-17(91800)
तिष्ठेत्कथमिति ब्रूयान्न किञ्चिद्धि तदा भवेत्।
अहङ्कार इति प्रोक्तः सर्वतेजोगतः प्रभुः॥ 13-258-18(91801)
नास्त्यन्तमस्ति तु ब्रह्मा स राजा लोकभावनः।
इत्युक्तः स तदा तूष्णीमभूद्वायुस्तमब्रवीत्॥ ॥ 13-258-19(91802)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टपञ्चाशदधिकद्विशततमोऽध्यायः॥ 258 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-258-4 रसकामः विबन्क्षीरं नाकुप्यत महातपाः इति थ.पाठः॥ 7-258-5 अहं वायुः॥ 7-258-8 कविः अग्निः॥ 7-258-9 महतः सगरपुत्रान् आसन्त उपासन्त। सुवर्णधारिणा शोभनो ब्राह्मणवर्णस्तस्य धारिणा धर्त्रा द्विजातिना कपिलेन मरुतश्चूर्णितान्पश्य। यौर्हि पूर्णो महोदधिरिति क.थ.पाठः॥ 7-258-13 अग्निं ब्राह्मणमित्यन्वयः ॥ 7-258-14 अनुभूतं प्रतिभूतम्। अनुपालकं पोषकम्॥ 7-258-16 ननु ब्रह्माण्डे जातत्वात्कथमण्डमजनयदित्यत्राह अण्डेति॥ 7-258-17 अण्डजत्ववचनं त्वस्य प्रकारान्तरेणेत्याह स्मृतमिति। द्रष्टव्यं नैतदेवं हीति झ.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|